पूर्वम्: ५।२।१२९
अनन्तरम्: ५।२।१३१
 
सूत्रम्
सुखादिभ्यश्च॥ ५।२।१३०
काशिका-वृत्तिः
सुखाऽदिभ्यश् च ५।२।१३१

सुख इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे। सुही। दुःखी। मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दो ऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम्। सुख। दुःख। तृप्र। कृच्छ्र। आम्र। अलीक। करुणा। कृपण। सोढ। प्रमीप। शील। हल। माल क्ष्पे। प्रणय।
न्यासः
सुखादिभ्यश्च। , ५।२।१३०

"इनिप्रत्ययो नियम्यते" इति। पूर्ववन्नियमो वेदितव्यः। "तदिह" इत्यादि। यतो व्रीह्रदिषु मालाशब्दः पठ()ते, तस्माद्यदिह क्षेपे मालाशब्दस्य पुनर्वचनं तन्मतुपो बाधनार्थम्(), न तु ठनः। सुखादिभ्य इति नोच्यत इति; अनेनैव निवर्त्तितत्वात्()। मालाशब्दो हि शिखादिषु, तत्रान्तर्भाविनः क्षेपादन्यत्रेनिर्भवत्येव। शिखादित्वान्मतुप्? च; मतुपस्तस्यान्यतरस्यांग्रहणेन समुच्चितत्वात्()--माली, मालावानिति॥
बाल-मनोरमा
सुखादिभ्यश्च १९११, ५।२।१३०

सुखादिभ्यश्च। इनिर्मत्वर्थे इति। इनिरेव, नतु ठनित्यर्थः। माला क्षेपे इति। शुखादिगणसूत्रमिदम्।